Sanskrit-Subhashita
Sunday, October 6, 2013
महिषासुरमर्दिनि स्तोत्रम्
अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते
अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
य हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५
अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
Saturday, September 28, 2013
॥ श्रीरामरक्षास्तोत्रम् ॥
॥ श्रीरामरक्षास्तोत्रम् ॥
अस्य श्रीरामरक्षास्त्रोत्रमंत्रस्य बुधकौशिकऋषिः
श्रीसीतारामचंद्रोदेवता अनुष्टुपछंदः सीताशक्तिः
श्रीमद्हनुमान कीलकम् श्रीरामचंन्द्रप्रीत्यर्थे जपेविनियोगः ।
॥ अथ ध्यानम् ॥
ध्यायेदाजानुबाहुम् धृतशरधनुष्यम् बद्धपद्मासनस्थम् ।
पीतंवासोवसानम् नवकमलदलस्पर्धीनेत्र प्रसन्नम् ॥
वामाङ्कारूढसीता मुखकमलमिलल्लोचनम् नीरदाभम् ।
नानाऽलङ्कारदीप्तम् दधतमूर्जटामण्डनम् रामचंद्रम् ॥
इति ध्यानम् ।
चरितम् रघुनाथस्य शतकोटीप्रविस्तरम् ।
एकैकमक्षरम् पूसां महापातकनाशनम् ॥१॥
ध्यात्वा नीलोत्पलश्यामम् रामम् राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डीतम् ॥२॥
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् ।
स्वलीलया जगत् त्रातुं आविर्भूतमजं विभूम् ॥३॥
रामरक्षा पठेत्प्राज्ञः पापघ्नीम् सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुतिः ।
घ्राणं पातु मखत्राता मुखं सौमित्रवत्सलः ॥५॥
जिव्हाम् विद्यानिधिः पातु कण्ठम् भरतवन्दितः ।
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥
करौ सीतपतिः पातु हृदयम् जामदग्न्यजितः ।
मध्यं पातु खरध्वंसि नाभिम् जांबवदाश्रयः ॥७॥
सुग्रीवेशः कटिः पातु सक्थिनी हनुमत्प्रभुः ।
ऊरुर्रघुत्तमः पातु रक्षः कुलविनाशकृत् ॥८॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखांतकः ।
पादौ बिभीषणः श्रीदः पातु रामोखिलं वपुः ॥९॥
एतां रामबलोपेतां रक्षायः सुकृति पठेत् ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
पातालभूतलव्योमचारिणः छद्मचारीणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥११॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्ति मुक्तिं च विन्दति ॥१२॥
जगत्जैत्रेकमंत्रेण राम्नानाऽभिरक्षितं ।
यः कण्ठे धारयेत् तस्य करस्था सर्वसिद्धयः ॥१३॥
वज्रपञ्जरनामेदं यो रामकवचं पठेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥१४॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमांहरः ।
तथालिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥१५॥
आरामः कल्पवृक्षाणाम् विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानाम् रामः श्रीमान् सनत्प्रभुः ॥१६॥
तरुणौ रुपसंपन्नौ सुकुमारौ महाबललौ ।
पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
फलमूलाशिनौ दांतौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
शरण्यौ सर्वसत्वानाम् श्रेष्ठौ सर्व धनुष्यताम् ।
रक्षः कुलनिहन्तारौ त्रायेत्तां नो रघुत्तमौ ॥१९॥
आतसज्जधनुषा विषस्पृशावक्षया शुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छ्ताम् ॥२०॥
सन्नद्धः कवची खड्गी चापबाणधरोयुवा ।
गच्छन् मनोरथोऽस्माकम् रामः पातु सलक्ष्मणः ॥२१॥
रामौ दाशरथिः शूरो लक्ष्मणोनुचरो बल ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमो ॥२२॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥२३॥
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥२४॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिष्येर्न ते संसारिणो नरः ॥२५॥
रामं लक्ष्मणपूर्वजंरघुवरं सीतापतिं सुन्दरम् ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकं ।
राजेन्द्रंसत्यसङ्घं दशरथतनयं शामलं शान्तमूर्तिम् ।
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥२७॥
श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥
माता रामो मत्पिता रामचन्द्रः ।
स्वामी रामू मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नार्न्यं जाने नैव जाने न जाने ॥३०॥
दक्षिणे लक्ष्मणौ यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३१॥
लोकाभिरामं रणरंगधिरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरुपम् करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥३२॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धीमतां वरिष्ठं ।
वातात्मजं वानरयुथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥
कूजन्तं रामरामेति मधुरं मधुराक्षरं ।
आरुह्य कविताशाकां वन्दे वाल्मीकिकोकिलम् ॥३४॥
आपदामपहर्तारं दातारं सर्व संपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥
भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥
रामो राजमणिः सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नस्ति परायणं परतरं रामस्य दासोऽस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥३७
।। नवग्रहस्तोत्रम् ।।
Sanskrit-Stotrani-
।। नवग्रहस्तोत्रम् ।।
ॐ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ।।१ ।।
दधि-शंख-तुषाराभं क्षीरोदार्णवसंभवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ।।२ ।।
धरणीगर्भसंभूतं विद्युत्कांतिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ।।३ ।।
प्रियङ्गुलिकाश्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ।।४ ।।
देवानां चा ऋषीणां च गुरूं काञ्चनसंन्निभम् ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।।५ ।।
हिमकुन्दमृणालाभं दैत्यानां परमं गुरूम् ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ।।६ ।।
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ।।७ ।।
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ।।८ ।।
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ।।९ ।।
इति व्यासमुखोद्गीतं य: पठेत्सुसमाहित: ।।
दिवा वा यदि वा रात्रौ विघ्नशान्तिभविश्यति ।।१० ।।
नरनारीनृपाणां च भवेत् दु:स्वप्ननाशनम् ।।
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ।।११ ।।
ग्रहनक्षत्रजा: पीडातस्कराग्निसमुद्भवा: ।।
ता: सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशय: ।।१२ ।।
इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम् ।
Subscribe to:
Posts (Atom)